षोडसोपचार पूजनम्
Listen online
View page note
Please go to your device settings and ensure that the Text-to-Speech engine is configured properly. Download the language data for Hindi or any other languages you prefer for the best experience.
ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमि सर्वतस्पृत्वात्यतिष्ठ द्दशांगुलम् ।।
2—आसन
ॐ पुरुषएवेद सर्व्वं यद्भूतं यच्च भाव्यम् ।उतामृतत्त्वस्येशानो यदन्नेनातिरोहति ।।
3—पाद्य
ॐ एतवानस्य महिमातो ज्यायांश्च पूरुषः । पादोस्य विश्वा भूतानि त्रिपादस्यामृतन्दिवि ।।
4—अर्घ्य
ॐ त्रिपादूर्ध्वऽउदैत्पुरुषः पादोस्येहामवत्त्पुनः ।
ततो विष्वं व्यक्रामत्त्सा शनानशनेऽअभि ।।
5—आचमन
ॐ ततो विराडजायत विराजो अधि पूरुषः ।
स जातोऽ अत्यरिच्यत पश्चाद्भूमिमथोपुरः ।।
6—स्नान
ॐ तस्माद्यज्ञात्सर्व्वहुतिः सम्भृतं पृषदाज्यम । पशूंस्तांश्चक्रे वायव्यानाराण्या ग्राम्याश्च ये ।।
7—वस्त्र
ॐ तस्माद् यज्ञात्सर्वहुतऽऋचः सामानिजज्ञिरे । छन्दा सि जज्ञिरे तस्माद्यजुस्तस्मादजायत ।।
8—यज्ञोपवीत
ॐ तस्मादश्वा अजायन्त ये के चोभयादत । गावो ह जज्ञिरे तस्मात्तस्माजातो अजावयः ।।
9—गन्ध
ॐ तं यज्ञम्बर्हिपि प्रौक्षन्नपुरुषं जातमग्रतः । तेन देवाऽअयजन्त साद्ध्याऽऋषयश्च ये ।।
10—पुष्पाणि
ॐ यत् पुरुषं व्यदधुः कतिधा व्यकल्पयन । मुखङ्किमस्यासीत्किम्वाहू किमूरू पादाऽउच्येते ।।
11—धूप
ॐ ब्राह्मणोऽय मुखमासीद्बाहू राजन्यः कृतः ।
उरू तदस्य यद्वैश्यः पद्मया शूद्रोऽअजायत ।।
12—दीपम्
ॐ चन्द्रमा मनसो जातश्चक्षोः सूर्य्योऽअजायत । श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ।।
13—नैवेद्य
ॐ नाभ्याऽआसीदन्तरिक्ष शीर्ष्णोद्यौःसमवर्त्ततः । पद्भ्यां भूमिर्दिशः श्रात्रात्तथा लोकां२ऽअकल्पयन् ।।
24—ताम्बूल पुंगीफल दक्षिणा
ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ।।
15—प्रदक्षिणा
ॐ सप्तास्यासन्परिधयस्रिः सस समिधः कृताः । देवा यद्यज्ञं तन्वानाऽअबध्नन् पुरुषम्पशुम् ।।
16—मन्त्र पुष्पाञ्जलि
ॐ यज्ञं न यज्ञमयजन्त देवास्तानि धर्म्माणि प्रथमान्यासन । तेह नाकं महिमानः सचन्त यत्र पूर्वे साध्या सन्ति देवाः ।।

