• News
  • Blogs
  • Gurukulam
English हिंदी
×

My Notes


  • TOC
    • सामूहिक गायत्री हवन
    • षोडसोपचार पूजनम्
    • हवन प्रारम्भ
    • वैदिक वेदियां तथा कलश स्थापन
  • My Note
  • Books
    • SPIRITUALITY
    • Meditation
    • EMOTIONS
    • AMRITVANI
    • PERSONAL TRANSFORMATION
    • SOCIAL IMPROVEMENT
    • SELF HELP
    • INDIAN CULTURE
    • SCIENCE AND SPIRITUALITY
    • GAYATRI
    • LIFE MANAGEMENT
    • PERSONALITY REFINEMENT
    • UPASANA SADHANA
    • CONSTRUCTING ERA
    • STRESS MANAGEMENT
    • HEALTH AND FITNESS
    • FAMILY RELATIONSHIPS
    • TEEN AND STUDENTS
    • ART OF LIVING
    • INDIAN CULTURE PHILOSOPHY
    • THOUGHT REVOLUTION
    • TRANSFORMING ERA
    • PEACE AND HAPPINESS
    • INNER POTENTIALS
    • STUDENT LIFE
    • SCIENTIFIC SPIRITUALITY
    • HUMAN DIGNITY
    • WILL POWER MIND POWER
    • SCIENCE AND RELIGION
    • WOMEN EMPOWERMENT
  • Akhandjyoti
  • Login





Books - गायत्री हवन पद्धति

Media: TEXT
Language: HINDI
TEXT


वैदिक वेदियां तथा कलश स्थापन

Listen online

View page note

Please go to your device settings and ensure that the Text-to-Speech engine is configured properly. Download the language data for Hindi or any other languages you prefer for the best experience.
×

Add Note


First 3 5 Last


प्रधान कलश को मुख्य वेदी आकाश तत्व की है। इस पर तेतीस प्रधान देवता स्थापित होते हैं तथा ‘‘अन्तरिक्ष सूक्त’’ का पाठ होता है। अग्निकोण में अग्नि देवता की स्थापना के लिए अग्नि सूक्त, नैऋत में जल देवता के लिए वरुणा सूक्त वायत्र्य में वायु सूक्त तथा ईशान में पृथ्वी का भू सूक्त पढ़ा जाता है। कलशों के नीचे तत्वों के यन्त्र बनाए जाते हैं। इन तत्व यन्त्रों के चित्र अन्यत्र छापे जा रहे हैं।

(13) अय अन्तरिक्ष सूक्तम् (प्रधान वेदी)

ॐ अन्तरिक्ष आसां स्थाम श्रान्तसदामिव ।
आस्थानमस्य भूतस्य विदुष्टद् वेधसो न वा ।।1।। ॐ अन्तरिक्षेण पतति विश्वा भूतावचाकशत् । शुनो दिव्यस्य यन्महस्तेना ते हविषा विधेम ।।2।।
ॐ अन्तरिक्षेण सह वाजिनीबन् कर्की वत्सामिह रक्ष वाजिन् ।
अयं घासो अयं ब्रज इह वत्सां नि वध्नीमः ।
यथानाम व ईश्महे स्वाहा ।।3।। ॐ अन्तरिक्षेण सह वाजिनीवन् कर्की वत्सामिह रक्ष वाजिन् ।
इमे ते स्तोका बहुला एह्यर्वाङ्यिं ते कर्क्रीह ते मनोऽस्तु ।।4।।
ॐ अन्तरिक्षे वायवे समनमन्त्स आर्घ्नोत् । यथान्तरिक्षे वायवे समनमन्नेवा मह्यं संनमः सं नमन्तु ।।5।। ॐ अन्तरिक्षं जालमासीज्जालदण्डा दिशो भहीः ।
तेनाभिधाय दस्यूनां शुक्रः सेना मपावपत ।।6।। ॐ अन्तरिक्षं दिवं भूमिमादित्यान् मरुतो दिशः ।
लोकान्त्स सर्वानाप्नोति यो ददाति शतौदनाम् ।।7।।
ॐ अन्तरिक्षं घेनुस्तस्या वायुर्वत्सः । सा मे वायुना वत्सेनेषमूर्जं काम दुहाम् ।
आयुः प्रथमं प्रजां पोषं रर्यि स्वाहा ।।8।।
(14) अथ अग्नि सूक्तम् (अग्नि कोण)

ॐ अग्नि मीले पुरोहितं यज्ञस्य देवमृत्विजम् ।
होतारं रत्नधातमम् ।।1।।
ॐ अग्निरात्रिं भरद्वाजं गविष्ठिरं प्रावन्नः कण्यं त्रसदस्युमाहवे । अग्निं वसिष्ठो हवते पुरोहितो मृलीकाय पुरोहितः ।।2।।
ॐ अग्निरिव मन्यो त्विषतः सहस्व सेनानीर्नः सहुरेहूत एधि ।
हत्वाय शत्रून्धि भतस्त्र वेद ओजो मिमानो वि मृधो नुदस्व ।।3।।
ॐ अग्निरीशे बृहतो अध्वरस्याग्निविश्वस्य हविषः क्रतस्य । क्रतुं ह्यस्य वसवो जुषन्ताथा देवा दधिरे हव्य वाहम् ।।4।। ॐ अग्निर्ऋषिः पवमानः पाञ्चजन्यः पुरोहितः ।
तमोमहे महागयम् ।।5।।
ॐ अग्निर्जाता देवानामग्निर्वेद मर्तानामपीच्यम् ।
अग्निः स द्रविणोदा अग्निर्द्वारा व्यूर्णुते स्वाहुतो नवीयसा नभन्तामन्यके समे ।।6।। ॐ अग्निदाद् द्रविणं वीरपेशा अग्निर्ऋषिः सहस्रा सनोति ।
अग्निर्दिवि हव्यमा ततानाग्नेर्धामानि विभृता पुरुत्रा ।।7।। ॐ अग्निस्तिग्मेन शोचिषा यासद्विश्वंन्य त्रिणम् । अग्निर्नो वनते रयिम् ।।8।।
(15) अथ वरुण सूक्तम् (नैऋत कोण)

ॐ हिरण्यवर्णाः शुचयः पवित्राः पावको यासु जातः कश्यपो यास्विन्द्रः ।। अग्नि या गर्भ दधिरे विरूपा स्तान आपः श स्योना भवन्तु ।।1।। ॐ यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम् ।। मधुश्चयुतः शुचयो याः पावका स्तान आपः श स्योना भवन्तु ।।2।।
ॐ यासां देवा हि विकृण्वन्ति भक्ष्यं या अन्तरिक्षे बहुधा भविन्त ।। या पृथिवीं पयसोन्दन्ति शुक्रा स्तान आपः श स्योना भवन्तु ।।3।।
ॐ आपोहिष्ठा मयो भुव, स्तान ऊर्जे दधाततः ।
महेरणाय चक्षसे, योवः शिवतमोरसः ।।4।।
तस्य भाजयते ह नः, उशतीरिव मातरः ।।
तस्मा अरङ्ग मामवः, यस्य क्षयाय जिन्वथ आयोजन यथा च नः ।।5।।
ॐ समुमित्रिया न आप ओषधयः सन्तु दुर्मित्रिया स्तस्प्रैसन्तु । योऽस्मा न्द्वेष्टि य ञ्च वयंद्विष्मः ।।6।। ॐ हिरण्यश्रृङ्ग वरुणं प्रपद्ये तीर्थं मे देहि याचित ।।
यन्मया सूक्त मसाधूनां पापेभ्यश प्रतिग्रहः ।।7।। ॐ यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम् ।। तन्नइन्द्रोवरुणाबृहस्पतिः सविता च पुनन्तु पुनः पुनः ।।8।।
(16) अथ वायु सूक्तम् (वायव्य कोण में)

ॐ वायो येते सहस्रिणो रथासस्तेभिरा गहि नियुत्वान् सोम पीतये ।।1।। ॐ वायुरग्रगा यज्ञप्री साकं गन्मनसा यज्ञम् शिवो नियुद्भिः शिवाभिः ।।2।। ॐ वायो शुक्रोऽअयामि ते मध्वोऽअग्र दिविष्टिपु ।
आ याहि सोम पीतये स्पार्हो देव नियुत्वता ।।3।।
ॐ वायोः पूतः पवित्रेण प्रत्यङ् सोमोऽ अतिद्रुतः ।
इन्द्रस्य युज्य सखा ।।4।। ॐ वायो पतः पवित्रेणप्राङ सोमोऽ अनिद नः इन्द्रस्य युज्यः सखा ।।5।।
ॐ वायुः पुनातु सविता पुनात्वग्नेभ्रा जिसा सूर्यस्य वर्चसा । विमुच्यन्तामुस्रिया ।।6।।
ॐ वायवा याहि दर्शतेमे सोमा अरंकृता । तेषां पाहि श्रु धी हवम् ।।7।।
ॐ वायु उक्थेभिर्जरन्ते त्वामच्छा जरितारः । सुत सोमाअहर्विदः ।।8।।
(27) अथ भू सूक्तम् (ईशान में)

ॐ भूमिर्भूम्ना द्यौर्वरिणान्तरिक्षं महित्वा । उपस्थे ते देव्यदितेऽग्निमन्नादमन्नाद्याया दधे ।1।
ॐ आयंगौः पृश्निरक्रमी दसदन्मातरं पुरः ।
पितरञ्च प्रियन्त्स्वः ।2। ॐ त्रिंशद्धामविराजति वाक्पतङ्गाय शिश्रये प्रत्यस्य वहद्युमिः ।3। ॐ अस्य प्राणादपा नन्त्यन्तश्चरति रोचना । व्यख्यन्माहृषः सुम्वः ।4। ॐ यत्वाक्रुद्धः परोवष मन्युना यदवत्या । सुकल्पमग्नेतत्तव पुनस्त्वो द्दीपयामसि ।5।
ॐ यत्ते मन्यु रोप्तस्य पृथिवी मनुदध्वसे । आदित्या विश्वे तद्देवा वसवश्चसमाभरन् ।6।
ॐ मेदिनी देवी वसुन्धर स्याद्धसुधा देवी वासवो
। ब्रह्मवर्चसः पितृणां श्रोत्रं चक्षुर्मनः ।7।
ॐ देवीहिरण्यगर्भिणी देवीप्रसूचरी ।
रसनेसत्यायनेसीद ।8।
(18) पञ्च भूसंस्कार

त्रिभिर्दभैः परिसमुह्य परिसमुह्य परिसमुह्य ।

तीन कुशाओं से दक्षिणा से उत्तर की तरफ झाड़े ।

पुनः गोमयोदकेनोपलिप्य उपलिप्य उपलिप्य ।

फिर गोबर और जल से वेदी को लीपे।

पुनः स्रुवमूलेन वा स्फेयेन उल्लिख्य उल्लिख्य उल्लिख्य ।

फिर स्रुवा से या स्फेय से तीन लकीर नीचे से ऊपर को खींचें।

पुनः उल्लेखन क्रमेण अनामिकाऽगुष्ठाभ्यां किंचद् मृदमुद्धृत्य रद व्य उदत्य ।

फिर लकीरों में से अनामिका और अंगूठा से कुछ-कुछ मिट्टी उठाकर ईशान की तरफ फेंके।

पुनः, कुशोदकेन अभ्युक्ष्य अभ्युक्ष्य अभ्युक्ष्य ।

फिर कुशा के जल से वेदी पर छींटा लगावें।

(19) मेखलापूजनम्

1 ब्रह्मा (ऊपर की सफेद), 2 विष्णु (बीच की लाल),
3 रुद्र (नीचे की काली)
(1) ॐ ब्रह्मजज्ञानम्प्रथमम्पुरस्ताद्विसीमतः सुरुचोवेन आवः । सबुध्न्याऽउपमाऽअस्यविष्ठाः सतश्च योनि समतश्च विवः ।
ॐ ब्रह्मणेनमः आवाहयामि स्थापयामि पूजयामि । (2) ॐ इदं विष्णु र्विचक्रमे त्रेधा निदधे पदम् ।
समूढमस्य पा सुरे ।। ॐ विश्णवेनमः आवाहयामि स्थापयामि पूजयामि ।।
(3) ॐ नमस्तेरुद्रमन्यवेऽउतोतऽइषवेनमः ।
बाहुभ्या मुतते नमः ।।
(20) रक्षा विधानम्

ॐ पूर्वं रक्षतु वाराहः अग्नेय्यां गरुडध्वजः ।

दक्षिणे पद्मनाभस्तु नैर्ऋत्यां मधुसूदनः ।।1।।

पश्चिमे चैव गोविंदो वायव्यां तु जनार्दनः ।

उत्तरे श्रीपती रक्षदैशान्यां हि महेश्वरः ।।2।।

उर्ध्वं रक्षतु धाता वो ह्यधोऽनन्तश्च रक्षतु ।

अनुक्तमपि यत् स्थानं रक्षत्वीशो मा माद्रिघृक् ।।3।।

अप सर्पन्तु ये भूता ये भूताभुवि संस्थिताः ।

ये भूता विघ्न कर्तारस्ते गच्छन्तु शिवाज्ञया ।।4।।

अपक्रामन्तु भूतानि पिशाचाः सर्वतोदिशम् ।

र्सवेषामविरोधेन, यज्ञकर्म समारभे ।।5।।

(21) अग्नि स्थापनम्

ॐ भूर्भुवः स्वर्द्यौरिव भूम्ना पृथिवीव वरिम्णा ।

तस्यास्ते पृथिवि देवयजनि पृष्ठेऽग्निमन्नादमन्नाद्यायादधे ।

ॐ अग्निं दूतं पुरोदधे हव्यवाहमुपव्रुवे । देवां ऽआसादयादिह ।।

ॐ अग्नये नमः । ॐ अग्निं आवाहयामि स्थापयामि ।

इहागच्छ इह तिष्ठ । इत्याबाह्य पंचोपचारैः पूजयेत् ।।

(22) गायत्री स्तवन

यन्मण्डलं दीप्तिकरं विशालं, रत्न प्रभम् तीव्रमनादि रूपम् ।
दारिद्र्य दुःखक्षय कारणंच, पुनातु मां तत्सवितुर्वरेण्यम् ।1। मन्मण्डलं देवगणैः सुपूजितम्, विप्रेः स्तुतं मानवमुक्ति कोविदम् । तं देवदेवं प्रणमामि भर्गं, पुनातु मां तत्सवितुर्वरेण्यम् ।2। यन्मण्डलं ज्ञान घनत्व गम्यं, त्रैलोक्य पूज्यं त्रिगुणात्मरूपं । समस्त तेजोमय दिव्य रूपं, पुनातु मां तत्सवितुर्वरेण्यम् ।3।
यन्मण्डलं गूढ़यति प्रबोधम्, धर्मस्य वृद्धिं कुरुते जनानाम् ।
यत् सर्व पापक्षय कारणं च, पुनातु मां तत्सवितुर्वरेण्यम् ।4।
यन्मण्डलं व्याधि विनाशदक्षम्, यदृग यजुः सामसु सम्प्रगीतम् ।
प्रकाशितं ये न च भूर्भुवः स्वः, पुनातु मां तत्सवितुर्वरेण्यम् ।5। यन्मण्डलं वेद विदो वदन्ति, गायन्ति यच्चारण सिद्ध संघाः ।
यद्योगिनो योगजुषां च संघाः, पुनातु मां तत्सवितुर्वरेण्यम् ।।6।।
यन्मण्डलं सर्व जनेषु पूजितम्, ज्योतिश्च कुर्यादिह मर्त्यलोके । यत्काल कालादिमनादि रूपम्, पुनातु मां तत्सवितुर्वरेण्यम् ।।7।।
यन्मण्डलं विष्णु चतुर्मुखास्यम्, यदक्षरं पाप हरं जनानाम् ।
यत्काल कल्पक्षय कारणं च, पुनातु मां तत्सवितुर्वरेण्यम् ।।8।। यन्मण्डलं विश्वसृजां प्रसिद्धम्, उत्पत्तिरक्षा प्रलय प्रगल्भम् । यस्मिन् जगत् संहरतेऽखिलञ्च, पुनातु मां तत्सवितुर्वरेण्यम् ।।9।। यन्मण्डल सर्व गतस्य विष्णोः, आत्मा परं धाम विशुद्ध तत्वम् । सूक्ष्मा तिरैर्योगपथानुगम्यम्, पुनातु मां तत्सवितुर्वरेण्यम् ।।10।। यन्मण्डलं ब्रह्म विदो वदन्ति, गायन्ति यच्चारण सिद्धसंघाः । यन्मण्डलं वेद विदाः स्मरन्ति, पुनातु मां तत्सवितुर्वरेण्यम् ।।11।।
यन्मण्डलं वेद विदोपगीतम्, यद्योगिनां योग पथानुगम्यम् ।
तत्सर्ववेदं प्रणमामि दिव्यं, पुनातु मां तत्सवितुर्वरेण्यम् ।।12।।
(23) अग्नि प्रदीपनम्

ॐ उद्बुध्यस्वाग्ने प्रति जागृहि त्वमिष्ठा पूर्ते स सृजेथामयं च । अस्मिन्त्सधस्थे अध्युत्तरस्मिन् विश्वेदेवा यज्ञमानश्च सीदत ।
(24) समिधा धानम्

(1) ॐ अयं इध्म आत्मा जातवेदस्तेनेध्यस्व वर्धस्व । चेद्ध वर्धय चास्मान् प्रजया पशुभिर्ब्रह्मवर्चसे नान्नाद्येन न समेधय, स्वाहा ।।
इदमग्नये जातवेदसे इदं न मम ।। (2)
ॐ समिधाग्निं दुवस्यत घृतैर्बोधयता तिथिम् ।
अस्मिन हव्या जुहोतन स्वाहा ।। इदमग्नये इदं न मम ।। (3)
ॐ सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन ।
अग्नये जातवेदसे स्वाहा ।। इदमग्नये जातवेदसे इदं न मम ।। (4) ॐ तंत्वा समिद्भिरंगिरो धृतेन वर्धंयामसि । बृहच्छोचायविष्ठ्या स्वाहा ।। इदमग्नयेऽङ्गिरसे इदं न मम् ।।
(25) जल प्रसेचनम्

ॐ आदित्येऽनुमन्यस्व ।। (इति पूर्वे) ॐ अनमतेऽनुमन्यस्व ।। (इति पश्चिमे)
ॐ सरस्वत्यत्यनुमन्यस्व ।। (इति उत्तरे) ॐ देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय ।
दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस्पतिर्वाजं न स्वदतु ।
इस मन्त्र से यज्ञकुण्ड (वेदी) के चारों ओर जल छिड़कें।
(26) आज्याहुति होमः

[1] ॐ प्रजापतये स्वाहा । इदं प्रजापतये इदं न मम ।

[2] ॐ इन्द्राय स्वाहा । इदमिन्द्राय इदं न मम ।

[3] ॐ अग्नये स्वाहा । इदमग्नये इदं न मम ।

[4] ॐ सोमाय स्वाहा । इदं सोमाय इदं न मम ।

[5] ॐ भूः स्वाहा । इदमग्नये इदं न मम ।

[6] ॐ भुवः स्वाहा । इदं वायवे इदं न मम ।

[7] ॐ स्वः स्वाहा । इदं सूर्याय इदं न मम ।

इसके पश्चात् गायत्री मन्त्र से जितनी आहुतियां देनी हों सो देनी चाहिए। मन्त्र—

ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य

धीमहि धियो योनः प्रचोदयात् ।

इदं गायत्र्यै इदं न मम ।

(27) स्विष्टकृत होमः

ॐ यदस्य कर्मणो त्यरीरिचं यद्वान्यूनमिहाकरं अग्निष्टत् स्विष्कृद्विद्यात्सर्वं स्विष्टं सुहुतं करोतुमे ।
अग्नये स्विष्टकृते सुहुतहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्धयित्रे सर्वान्नः कामान् समेधय स्वाहा । इदमग्नये स्विष्टकृते इदन्नमम् ।।
(28) दशदिकपाल वलि

ॐ प्राच्यैदिशेस्वाहार्वाच्यैदिशेरवाहा दक्षिणयैदिशे स्वाहा वाच्यैदिशे स्वाहा प्रतीच्यैदिशेस्वाहा र्वाच्यैदिशे स्वाहा दीच्यै दिशेस्वर्वाच्यैदिशेस्वाहोर्द्धायैदिशेस्वाहार्वाच्यै दिशे स्वाहार्वाच्यै दिशेस्वार्हा व्यैदिशे स्वाहा ।।

(1) पूर्वे, इन्द्रायनमः इमं सदीपमाषभक्तबलिं समर्पयामि ।

(2) आग्नेयां, अग्नयेममः इमं सदीपमाषभक्तवलिं समर्पयामि ।

(3) दक्षिणै, यमायनमः इमं सदीपमापभक्तवलिं समर्पयामि ।

(4) नैर्ऋत्यां, निर्ऋतयेनमः इमं सदीपमाषभक्तवलिंसमर्पयामि ।

(5) पश्चमे, वरुणायनमः इमं सदीपमाषभक्तवलिं समर्पयामि ।

(6) वायव्ये, वायवेनप्तः इमं सदीपमाषभक्तवलिं समर्पयामि ।

(7) उत्तरे, सोमायनमः इमं सदीपमाषभक्तवलिं समर्पयामि ।

(8) ईशाने, ईश्वरायनमः इमं सदीपमाषभक्तवलिं समर्पयामि ।

(9) पूर्वेशानयोर्नध्ये, ब्रह्मणेनमः इमं सदीपमाषभक्तवलिं समर्पयामि ।

(10) निर्ऋतिपश्चिमयोर्मध्ये, अनन्तायनमः इमं सदीपमाषभक्तवलिं समर्पयामि ।

ॐ भूर्भुवः स्वः इन्द्रादिदशदिग्पालान्साङ्गान्सपरिवारान् सायुधान् सशक्तिकान्एभिर्गधाद्यु पचारैस्त्वामहं पूजयामि । ॐ भूर्भुवः स्वः इन्द्रादिदशदिक्पालेभ्यः साङ्गेभ्यः सपरिवारेभ्यः सायुधेम्यः सशक्तिकेम्यः इमं सदीपं आसादितंदधिमापभक्तबलिं समर्पयामि ।
भोभोइन्द्रादि दशदिक् पालाः इमं बलिं गृह्णीत ।
मम सकुटुम्बस्य सपरिवारस्य यजमानस्य चाभ्युदयं कुरुत आयुः कर्तारः क्षेमकर्तारः शान्तिकर्तारः पुष्टिकर्तारः निर्विघ्नकर्तारः कल्याणकर्तारः बरदाभवत ।
अनेन पूजनपूर्वक बलिदानेन इन्द्रादि दश दिक्पालदेवताः प्रीयन्ताम् नमम ।।
(39) महाक्षेत्रपाल वलि

ॐ नहिस्पशमविदन्नन्यमस्मा द्वैश्वानरात्पुरऽएतारमग्नेः एमेनमबृधन्नमृताऽअमर्त्य वैश्वानरं क्षैत्र जित्याय देवाः ।
ॐ क्षेत्रपालाय नमः षोडशोपचारैः सम्पूज्य ।। प्रार्थयेत् ।।
ॐ नमो क्षेत्रपालस्त्वं भूतप्रेतगणैः सह । पूजां वलिंगृहाणेणं सोम्योभवतुसर्वदा । आयुरारोग्यं मे देहि निर्विघ्नं कुरु सर्वदा ।।
क्षेत्रपाल महाबाहो महावलः पराक्रमा क्षेत्राणांरक्षणार्थाये वलिं गृह्णनमोस्तुत क्षेत्रपालाय सांगाय भूतप्रेत पिशाच शाकिनी डाकिनी वेतालादि परिवारयुताय सायुधाय सशक्ति काय सवाहनाय इमं दधिमाषभक्त पलिं समर्पयामि ।। भोमो क्षेत्रपाल सर्वतोदिशंरक्षवलिं भक्ष मम कुटुम्बस्याभ्युदय कुरु ।
आयुः कर्ता क्षेम कर्ता शान्ति कर्ता दृष्टिकर्ता तुष्टिकर्ता निविघ्नकर्ता वरदोभव ।।
अगेन वलिदानेन क्षेत्रपाल प्रायताम् नमम ।।
(30) पूर्णाहुति

ॐ समुद्रादूमिंर्मधुमा २ उदारदुपा शुना सममृतत्त्वमानट्र ।।
तस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः ।।1।। वयं नाम प्रब्रवामा घृतस्यास्मिन्यज्ञे धारयामा नमोभिः ।
उप श्रृणवच्छस्यमानं चतुः श्रृंगोऽवमीद्गौर एतत् ।।2।।
चत्वारि श्रृंगा त्रयो ऽअस्य पादा द्वेशीर्षे सप्त हस्तासोऽअस्या ।। त्रिधा वद्धो वृषभो रोरवीति महो देवो मर्त्या २ ऽआविवेश ।।3।। ॐ त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविन्दन् ।।
इन्द्र ऽएस सूर्य ऽएक जजान वेनादेक स्वधया निष्टतक्षुः ।।4।। ॐ एता ऽअषन्ति हृद्यात्त्समुद्राच्छतब्रजा रिपुणा नावचक्षे ।। घृतम्य धारा ऽअभिचाकशीमि रिण्ययो वेतसो मध्य ऽआसाम् ।।5।। ॐ सम्यक् स्रवन्ति सरितो न घेना ऽअन्तर्हृदा मनसा पूयमानाः । एते ऽअर्षन्त्यर्मयो घृतस्य मृगा ऽइव क्षिपणोरीषमाणाः ।।6।।
ॐपूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।।7।। ॐ पूर्णा दर्वि परापत सुपूर्णा पुनरापत ।।
वस्नेव विक्रीणावहा ऽइषमूर्ज शतक्रतो स्वाहा ।।8।।
सर्व वै पूर्ण स्वाहा ।। इदमग्नये वैश्वानराय वसुरुद्रादित्येम्यः शतक्रतवे सप्तवते अग्नयेऽद्भयश्च न मम ।।
(31) वसोर्द्धारां

ॐ शुव्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्मांश्च ।। शुक्रश्च ऽऋतपाश्चात्य हाः ।।1।। ॐ ईदृङ चान्यादृङ् च सदृङ् च प्रति सदृङ् च मितश्च सम्मितश्च भराः ।।2।। ॐ ऋतश्च सत्यश्च ध्रुवश्च वरुणश्च ।। धर्त्ता च विधर्त्ता च विधारयः ।।4।। ॐ ऋतजिच सत्यजिच सनेजिच सुषेणाश्च ।।
अन्तिमित्रश्च दूरेऽअमित्रश्च गणः ।।4।।
ॐ ईदृक्षास ऽएतादृक्षास ऽऊषुणुः सदृक्षासः प्रति सदृक्षास ऽएतन ।
मितासश्च सम्मितासो नो ऽअद्य समरसो मरुतो यज्ञो ऽअस्मिन् ।।5।। ॐ स्वतवांश्च प्रघासी च सान्तपनश्च गृहमेधी च ।। क्रीडी च शाकी चोज्जेर्षा ।।6।। ॐ इन्द्रं दैवीर्विशो मरुतोऽनुवर्त्मानो ऽभवन्यथेन्द्रं दैवीर्विशो मरुतोऽनुवर्त्मानोऽभवन् ।। एवमिमं यजमानं दैवीश्च विशो मानुषीश्चानुवत्मानो भवन्तु ।।7।। ॐ वसोः पवित्रमसि शतधारं वसोः पवित्र मसि सहस्रधारम् ।। देवस्त्वा सवितो पुनातु वसोः पवित्रेण शतधारेण सुप्वा कामधुक्षः स्वाहाः ।।8।।
(32) आरती

ॐ यं ब्रह्मवेदान्तविदो वदन्ति, परं प्रधानं पुरुषं तथान्ये ।

विश्वोद्गतेः कारणमीश्वरं वा, तस्मै नमो विघ्नविनाशनाय ।।1।।

ॐ यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः, स्तुन्वन्ति दिव्यै स्तवैः ।

वेदैः सांगपदक्रमोपनिषदैः, गायन्ति यं सामगाः ।।

ध्यानावस्थित तद्गतेन मनसा, पश्यन्ति यं योगिनो ।

यस्यान्तं न विदुः सुरासुरगणाः, देवाय तस्मै नमः ।।2।।

(33) घृत अवघ्राण

ॐ तनूपा अग्नेऽसि तन्व मे पाहि ।
ॐ आयुर्दा अग्नेऽस्यार्युमे देहि ।। ॐ वर्चोदा अग्नेऽसि, वर्चो मे देहि । ॐ अग्ने यन्मे तन्वा उनन्तन्म आपृण ।। ॐ मेधा मे देवः, सविता आदधातु ।
ॐ मेधां मे देवी सरस्वती आदधातु ।।
ॐ मेधां मे अश्विनौ, देवा वाधतां पुष्कर स्रजौ ।
(34) भस्म धारण

ॐ त्र्यायुषं जमदग्नेरिति ललाटे ।
ॐ कश्यपश्य त्रायुषमिति ग्रीवायाम् ।
ॐ यद्देबेषु त्र्यायुषमिति दक्षिण बाहु मूले । ॐ तन्नोअस्तु त्र्यायुषमिति हृदि ।।
(35) क्षमा प्रार्थना

आवाहनं न जानामि नैव जानामि पूजनम् ।

विसर्जनं न जानामि क्षमस्व परमेश्वर! ।।1।।

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।

यत्पूजितं मयादेव परिपूर्णं तदस्तुमे ।।2।।

यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् ।

तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ।।3।।

यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।

न्यूनं सम्पूर्णतां याति सद्योवन्दे तमच्युतम् ।।4।।

प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् ।

स्मरणादेव तद्विष्णोः सम्पूर्णः स्यादिति श्रुतिः ।।5।।

(36) साष्टांग नमस्कार

नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुवाहवे ।

सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः ।।1।।

नमो ब्रह्मण्यदेवाय गौब्राह्महिताय च ।

जगद्धिताय कृष्णाय गोविन्दाय नमोनमः ।।2।।

(37) शुभ कामना

स्वस्ति प्रजाभ्यांपरिपालयन्ता न्यायेन मार्गेण महीं महीशाः ।

गोब्राह्मणोभ्यो शुभमस्तु नित्यं, लोकासमस्ता सुखिनोभवन्तु ।।

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।

सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखमाप्नुयात् ।।2।।

अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः ।

निर्धनाः सधनाः सन्तु जीवनतु शरदा शतम् ।।3।।

श्रद्धां मेधा यशः प्रज्ञां विद्यां पुष्टिं श्रियं बलम् ।

तेज आयुष्यमारोग्यं देहि मे हव्यवाहन ।।4।।

(38) मन्त्रपुष्पांजलि

ॐ यज्ञेन यज्ञ मयजन्त देवास्तानि धर्माणि प्रथमा न्यासन् । तेह नाकम्महिमान; सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ।।
मन्त्रपुष्पांजलि समर्पयामि ।।
(39) अभिसिंचनम्

ॐ द्यौः शान्तिरन्तरिक्ष शांतिः पृथिवी शान्ति रापः शान्तिरोषधयः शान्तिः वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्म शान्ति सर्व शान्तिः शान्तरेव शान्तिः सामा शान्तिरेधि ।। ॐ शांतिः शांतिः शांतिः ।
सर्वारिष्टः सुशान्तिर्भवतु ।।
(40) प्रदक्षिणा

यानि कानि च पापानि ज्ञाताज्ञातकृतानि च ।

तानि सर्वाणि नश्यन्ति प्रदक्षिणायां पदे-पदे ।।

(41) विसर्जन

गच्छत्वं भगवनग्ने स्वस्थाने कुण्ड मध्यतः ।

हुतमादाय देवेभ्यः शीघ्रं प्रसीद मे ।।1।।

गच्छ गच्छ सुरश्रेष्ठ स्वस्थाने परमेश्वर ।

यत्र ब्रह्मादयो देवास्तत्र गच्छ हुताशनः ।।2।।

यान्तु देवगणाः सर्वे पूजा मदाय मामकीम् ।

इष्ट काम समृद्धयर्थं पुनरागमनायच ।।3।।

(42) अर्घ्यदान

ॐ सूर्यं देव सहस्रांशो तेजो राशे जगत्पते ।

अनुकम्पय मां भवत्यां ग्रहणार्घ्यं दिवाकर ।।

(43) आरती गायत्री जी की

जयति जय गायत्री माता । जयति जय गायत्री माता ।।

आदि शक्ति तुम अलख निरंजनि जग पालन कर्त्री ।

दुःख शोक, भय, क्लेश, कलह, दारिद्रय दैनय हर्त्री ।।

ब्रह्मरूपिणी, प्रणति पालिनी, जगद्धातृ अम्बे ।

भवभय हारी, जनहितकारी, सुखदा जगदम्बे ।।

भवहारिणी, भव तारिणि अनघे, अज आनन्द राशी ।

अविकारी, अघहारी, अविचलित, अमले अविनाशी ।।

कामधेनु सत चित्त अनन्दा जय गंगा गीता ।

सविता की शाश्वती शक्ति तुम सावित्री सीता ।

ऋगु, यजु, साम अथर्व प्रणविनी प्रणव महामहिमे ।

कुण्डलिनी सहस्रार सुषुम्ना शोभा गुण गरिमे ।।

स्वाहा, सुधा, शची ब्रह्माणी राधा, रुद्राणी ।

जय सतरूपा वाणी विद्या कमला कल्याणी ।।

जननी हम हैं दीन—हीन दुःख दारिद के घेरे ।

यद्यपि कुटिल कपटी कपूत तऊ बालक हैं तेरे ।।

स्नेह सनी करुणामय माता चरण-शरण दीजै ।

बिलख रहे हैं हम शिशु सुत तेरे दया दृष्टि कीजै ।

काम, क्रोध, मद, लोभ, दम्भ, दुर्भाव, द्वेष हरिये ।

शुद्ध-बुद्धि, निष्पाप हृदय, मन को पवित्र करिये ।।

तुम समर्थ सब भांति तारिणी तुष्टि, पुष्टि माता ।

सत मारग पर हमें चलाओ, जो है सुख दाता ।।

जयति जय गायत्री माता । जयति जय गायत्री माता ।।

(44) यज्ञ की महिमा

यज्ञ रूप प्रभो हमारे, भाव उज्ज्वल कीजिये ।

छोड़ देवें छल कपट को, मानसिक बल दीजिये ।।

वेद की बोले ऋचाएं, सत्य को धारण करें ।

हर्ष में हो मग्न सारे, शोक सागर से तरें ।।

अश्वमेधादिक रचाएं, यज्ञ पर उपकार को ।

धर्म मर्यादा चलाकर, लाभ दें संसार को ।।

नित्य श्रद्धा भक्ति से यज्ञादि हम करते रहें ।

रोग पीड़ित विश्व के, संताप सब हरते रहें ।।

कामना मिट जाए मन से, पाप अत्याचार की ।

भावनाएं शुद्ध होवें, यज्ञ से नर-नारी की ।।

लाभकारी हो हवन, हर जीवधारी के लिये ।

वायु जल सर्वत्र हों, शुभ गन्ध को धारण किये ।।

स्वार्थ भाव मिटे हमारा, प्रेम पथ विस्तार हो ।

‘इदं न मम’ का सार्थक, प्रत्येक में व्यवहार हो ।।

हाथ जोड़ झुकाए मस्तक, वन्दना हम कर रहे ।

नाथ करुणा रूप वरुणा, आपकी सब पर रहे ।।

First 3 5 Last


Other Version of this book



गायत्री हवन पद्धति
Type: TEXT
Language: HINDI
...


Releted Books


Articles of Books

  • सामूहिक गायत्री हवन
  • षोडसोपचार पूजनम्
  • हवन प्रारम्भ
  • वैदिक वेदियां तथा कलश स्थापन
About Shantikunj

Shantikunj has emerged over the years as a unique center and fountain-head of a global movement of Yug Nirman Yojna (Movement for the Reconstruction of the Era) for moral-spiritual regeneration in the light of hoary Indian heritage.

Navigation Links
  • Home
  • Literature
  • News and Activities
  • Quotes and Thoughts
  • Videos and more
  • Audio
  • Join Us
  • Contact
Write to us

Click below and write to us your commenct and input.

Go

Copyright © SRI VEDMATA GAYATRI TRUST (TMD). All rights reserved. | Design by IT Cell Shantikunj