
ईश-स्तवन
Listen online
View page note
Please go to your device settings and ensure that the Text-to-Speech engine is configured properly. Download the language data for Hindi or any other languages you prefer for the best experience.
भयानाँ भयं भीषणं भीषणानाँ, गतिः प्राणिनाँ पावनं पावनानाम्।
महोच्चेः पदानाँ नियन्तृ त्वमेकं, परेषाँ परं रक्षणं रक्षगानाम्॥1॥
तमीश्वराणाँ परमं महेश्वरं, तं देवतानाँ परमञ्च दैवतम्।
पतिं पतीनाँ परमं परस्ताद, विदाम देवं भुवनेश मीड्यम्॥2॥
वयं त्वाँ स्मरामो वयं त्वाँ भजामो, वयन्त्वाँ जगत्सक्षिरुपं नमामः।
सदेकं निधानं निरालम्ब मीशं, भवाम्भोधिपोतं शण्यं ब्रजाभः॥3॥
नमस्ते सते ते जगत्कारणाय, नमस्ते चिते सर्व लोकाश्रयाय।
नमोऽद्वैततत्वाय मुक्ति प्रदाय, नमो ब्रह्मणे व्यापिने शाश्वताय॥4॥
त्वमेकं शरण्यं त्वमेकं वरेण्यं, त्वमेकं जगत्पालकं स्वप्रकाशम्।
त्वमेकं जगत्कतृ पातृ प्रहतृ, त्वमेकं परं निञ्चलं निर्विकल्पम्॥5॥
विदुर्यन्न चित्तेन्द्रियाणीन्द्रियेशं, विजानाति यस्तानि नितयं नियन्ता।
जगत्साक्षिणं व्यापकं विश्ववन्द्यं, चिदानन्द रूप तमीशं प्रपद्ये॥6॥
अणोरप्यणीयान्महद्भ्यो महीयान्, रविन्दुर्ग्रहोयोभगोलादि कर्ता।
य ईशोहि सृष्ट्यादि मध्यान्त संस्थश्चदानन्द रुपं तमीशं प्रपद्ये॥7॥
यतो जायते विश्व मेतत्समस्तं, स्थितं यत्रयस्मिर्न्लय याति काले।
अनादि विभुञ्चादि मध्यान्त शून्यञ्चिदानन्द रुपं तमीशं प्रपद्ये॥8॥
वशे यस्य विश्वं समस्तं सदास्ते, यदाभासतो भतियद्वै विचित्रम्।
नजानन्ति यं तत्त्वतो योगिनोऽपि, चिदानन्द रुपं तमीशं प्रपद्ये॥9॥
स्वामिन्नमस्ते नतलोक वन्धो, कारुण्य सिन्धो पतितं भवाब्धौ।
मामुद्धरात्मीय कटाक्ष दृष्ट्या, ऋज्व्यातु कारुण्य सुधाभिवृष्ट्या॥10॥
त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुश्च सखा त्वमेव।
त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्वं मम देव देवः॥11॥
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुखभाग भवेत्॥12॥
*समाप्त*